(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.25. अध्यायः 025
Mahabharata - Shanti Parva - Chapter Topics
व्यासेन युधिष्ठिरं प्रति सेनजिद्वचनानुवादपूर्वकं राजधर्मकथनम्॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

वैशम्पायन उवाच। 12-25-0x(5376)(65647)
द्वैपायनवचः श्रुत्वा कुपिते च धनञ्जये।
व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः॥ 12-25-1(65648)
युधिष्ठिर उवाच। 12-25-2x(5377)
न पार्थिवमिदं राज्यं न भोगाश्च पृथग्विधाः।
प्रीणयन्ति मनो मेऽद्य शोको मां दारयत्ययम्॥ 12-25-2(65649)
श्रुत्वा वीरविहीनानामपुत्राणां च योषिताम्।
परिदेवयमानानां न शान्तिं मनसा लभे॥ 12-25-3(65650)
इत्युक्तः प्रत्युवाचेदं व्यासो योगविदांवरः।
युधिष्ठिरं महाप्राज्ञो धर्मज्ञो वेदपारगः॥ 12-25-4(65651)
व्यास उवाच। 12-25-5x(5378)
न कर्मणा लभ्यते चेज्यया वा
नाप्यस्ति दाता पुरुषस्य कश्चित्।
पर्याययोगाद्विहितं विधात्रा
कालेन सर्वं लभते मनुष्यः॥ 12-25-5(65652)
न बुद्धिशक्त्याऽऽध्ययनेन शक्यं
प्राप्तुं विशेषं मनुजैरकाले।
मूर्खोऽपि चाप्नोति कदाचिदर्था
न्कालो हि सर्वं पुरुषस्य दाता॥ 12-25-6(65653)
न भूरकालेषु फलं ददाति
शिल्पानि मन्त्राश्च तथौषधानि।
तान्येव कालेन समाहितानि
सिद्ध्यन्ति वर्धन्ति च भूतिकाले॥ 12-25-7(65654)
कालेन शीघ्राः प्रवहन्ति वाताः
कालेन वृष्टिर्जलदानुपैति।
कालेन पझोत्पलवञ्जलं च
कालेन पुष्यन्ति वनेषु वृक्षाः॥ 12-25-8(65655)
कालेन कृष्णाश्च सिताश्च रात्र्यः
कालेन चन्द्रः परिपूर्णबिम्बः।
नाकालतः पुष्पफलं द्रुमाणां
नाकालवेगाः सरितो वहन्ति॥ 12-25-9(65656)
नाकालमत्ताः खगपन्नगाश्च
मृगद्विपाः शैलमृगाश्च लोके।
नाकालतः स्त्रीषु भवन्ति गर्भा
नायन्त्यकाले शिशिरोष्णवर्षाः॥ 12-25-10(65657)
नाकालतो म्रियते जायते वा
नाकालतो व्याहरते च बालः।
नाकालतो यौवनमभ्युपैति
नाकालतो रोहति बीजमुप्तम्॥ 12-25-11(65658)
नाकालतो भानुरुपैति योगं
नाकालतोऽस्तं गिरिमभ्युपैति।
नाकालतो वर्धते हीयते च
चन्द्रः समुद्रोऽपि महोर्मिमाली॥ 12-25-12(65659)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर॥ 12-25-13(65660)
सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुःसहः।
कालेन परिपक्वा हि म्रियन्ते सर्वपार्थिवाः॥ 12-25-14(65661)
घ्नन्ति चान्यान्नरान्राजंस्तानप्यन्ये तथा नराः।
संज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते॥ 12-25-15(65662)
हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरः।
स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ॥ 12-25-16(65663)
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते।
अहो दुःखमिति ध्यायन्दुःखस्यापचितिं चरेत्॥ 12-25-17(65664)
स किं शोचसि मूढः सञ्शोच्यान्किमनुशोचसि।
पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि॥ 12-25-18(65665)
आत्माऽपि चायं न मम सर्वाऽपि पथिवी मम।
यथा मम तथाऽन्येषामिति पश्यन्न मुह्यति॥ 12-25-19(65666)
शोकस्थानसहस्राणि हर्षस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम्॥ 12-25-20(65667)
एवमेतानि कालेन प्रियद्वेष्याणि भागशः।
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च॥ 12-25-21(65668)
दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते।
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्॥ 12-25-22(65669)
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्।
न नित्यं लभते दुःखं न नित्यं लभते सुखम्॥ 12-25-23(65670)
सुखमेव हि दुःखान्तं कदाचिद्दुःखतः सुखम्।
तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम्॥ 12-25-24(65671)
सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम्।
यन्निमित्तो भवेच्छोकस्तापो वा दुःखमूर्च्छितः।
आयासो वाऽपि यन्मूलस्तदेकाङ्गमपि त्यजेत्॥ 12-25-25(65672)
सुखं वा यदि वा दुःखं प्रियं वा यदि वाऽप्रियम्।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः॥ 12-25-26(65673)
ईषदप्यङ्ग दाराणां पुत्राणामाचरन्प्रियम्।
ततो ज्ञास्यसि कः कस्य केन वा कथमेव च॥ 12-25-27(65674)
ये च मूढतमा लोके ये च बुद्धेः परं गताः।
त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः॥ 12-25-28(65675)
इत्यन्नवीन्महाप्राज्ञो युधिष्ठिर स सेनजित्।
परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित्॥ 12-25-29(65676)
परदुःखेन दुःखी यो न स जातु सुखी भवेत्।
दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम्॥ 12-25-30(65677)
सुखं च दुःखं च भवाभवौ च
लाभालाभौ मरणं जीवितं च।
पर्यायतः सर्वमवाप्तुवन्ति
तस्मान्न मुह्येन्न च संप्रहृष्येत्॥ 12-25-31(65678)
दीक्षां राज्ञां संयुगे धर्ममाहु
र्योगं राज्ये दण्डनीतिं च सम्यक्।
वित्तत्यागं दक्षिणां चैव यज्ञे
सम्यग्दानं पावनानीति विद्यात्॥ 12-25-32(65679)
रक्षन्राज्यं बुद्धिपूर्वं नयेन
संत्यक्तात्मा यज्ञशीलो महात्मा।
सर्वाल्लोकान्धर्मदृष्ट्यावलोक
न्नूध्वं देहान्मोदते देवलोके॥ 12-25-33(65680)
जित्वा संग्रामान्पालयित्वा च राष्ट्रं
सोमं पीत्वा वर्धयित्वा प्रजाश्च।
युक्त्या दण्डं धारयित्वा प्रजानां
पश्चात्क्षीणायुर्मोदते देवलोके॥ 12-25-34(65681)
`यजन्ति यज्ञान्विजयन्ति राज्यं
रक्षन्ति राष्ट्राणि प्रियाणि चैषाम्।'
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य
सम्यग्राज्यं पालयित्वा च राजा।
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे
पूतात्मा वै मोदते देवलोके॥ 12-25-35(65682)
यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः।
पौरजानपदामात्याः स राजा राजसत्तमः॥ ॥ 12-25-36(65683)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चविंशोऽध्यायः (*)॥ 25॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-25-1 कुपिते राज्यकारणात्॥ 12-25-3 वीरविहीनानां पतिहीनानाम्॥ 12-25-5 नलभ्यते वीरो हतवीराभिर्वीरपत्नीभिरित्यर्थः। नापि ताभ्यः कश्चित्पतिं दातुं समर्थोऽस्तीत्यर्थः॥ 12-25-7 नाभूतिकालेष्विति झ.पाठः॥ 12-25-8 पुष्प्यन्तीति ड. पाठः॥ 12-25-14 पर्यायः कालगतिः॥ 12-25-17 अपचितिं प्रतीकारम्॥ 12-25-18 दुःखेषु शोकजेषु मनस्तापेषु। दुःखानि शिरस्ताडनादीनि। दुःखादेर्द्विगुणीकरणं मूढकार्यमित्यर्थः॥ 12-25-21 यानि प्रियाणि तान्येव काले दुःखानि भवन्ति। यानि द्वेष्याणि तान्येव सुखानि॥ 12-25-22 तृष्णया याऽऽर्तिरनवस्थितचित्तता तज्जं दुःखम्। दुःखस्यार्तिर्विनाशस्तज्जं सुखम्॥ 12-25-25 दुःखमूर्छितः दुःखेन वर्धितः। एकाङ्गमपि सर्पदष्टाङ्गुष्ठवत् त्यजेत्॥ 12-25-27 केन हेतुना कथं केन प्रकारेण कस्य संबन्धीति ज्ञास्यति॥ 12-25-31 भवाभवौ ऐश्वर्यानैश्वर्ये॥ 12-25-33 संत्यक्तात्मा निरहंकारः॥

Mahabharata - Shanti Parva - Chapter Text

* एतदनन्तरं एकोऽध्यायः ध. पाठेऽधिको दृश्यते। 12-25a-1x [वैशम्पायन उवाच। 12-25a-1a अस्मिन्नेव प्रकरणे धनञ्जयमुदारधीः। 12-25a-1b अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः॥ 12-25a-2a यदेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति। 12-25a-2b न स्वर्गो न सुखं नार्थो निर्धनस्येति तन्मृषा॥ 12-25a-3a स्वाध्याययज्ञसंसिद्धा दृश्यन्ते वहवो जनाः। 12-25a-3b तपोरताश्च मुनयो येषां लोकाः सनातनाः॥ 12-25a-4a ऋषीणां समयं शश्वद्ये रक्षन्ति धनञ्जय। 12-25a-4b आश्रिताः सर्वधर्मज्ञा देवास्तान्ब्राह्मणान्विदुः॥ 12-25a-5a स्वाध्यायनिष्ठान्हि ऋषीञ्ज्ञाननिष्ठांस्तथाऽपरान्। 12-25a-5b बुद्ध्येथाः संततं चापि धर्मनिष्ठान्धनञ्जय॥ 12-25a-6a ज्ञाननिष्ठेषु कार्याणि प्रतिष्ठाप्यानि पाण्डव। 12-25a-6b वैखानसानां वचनं यथा नो विदितं प्रभो॥ 12-25a-7a अजाश्च पृश्नयश्चैव सिकताश्चैव भारत। 12-25a-7b अरुणाः केतवश्चैव स्वाध्यायेन दिवं गताः॥ 12-25a-8a अवाप्यैतानि कर्माणि वेदोक्तानि धनञ्जय। 12-25a-8b दानमध्ययनं यज्ञो निग्रहश्चैव दुर्ग्रहः॥ 12-25a-9a दक्षिणेन च पन्थानमर्यम्णो ये दिवं गताः। 12-25a-9b एतान्क्रियावतां लोकानुक्तवान्पूर्वमप्यहम्॥ 12-25a-10a उत्तरेण तु पन्थानं नियमाद्यं प्रपश्यसि। 12-25a-10b एते यागवतां लोका भान्ति पार्थ सनातनाः॥ 12-25a-11a तत्रोत्तरां गतिं पार्थ प्रशंसन्ति पुराविदः। 12-25a-11b संतोषो वै स्वर्गतमः संतोषः परमं सुखम्॥ 12-25a-12a तुष्टेर्न किंचित्परमं सा सम्यक् प्रतितिष्ठति। 12-25a-12b विनीतक्रोधहर्षस्य, सततं सिद्धिरुत्तमा॥ 12-25a-13a अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना। 12-25a-13b योऽभिप्रेत्याहरेत्कामान्कूर्मोऽङ्गानीव सर्वशः॥ 12-25a-14a यदा चायं न बिभेति यदा चास्मान्न बिभ्यति। 12-25a-14b यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा॥ 12-25a-15a यदा न भावं कुरुते सर्वभूतेषु पापकम्। 12-25a-15b कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा॥ 12-25a-16a विनीतमानमोहश्च बहुसङ्गविवर्जितः। 12-25a-16b तदात्मज्योतिषः साधो निर्वाणमुपपद्यते॥ 12-25a-17a इदं तु शृणु मे पार्थ ब्रुवतः संयतेन्द्रियः। 12-25a-17b धर्ममन्ये वृत्तमन्ये धनमीहन्ति चापरे॥ 12-25a-18a धनहेतोर्य ईहेत तस्यानीहा गरीयसी। 12-25a-18b भूयान्दोषो हि वित्तस्य यश्च धर्मस्तदाश्रयः॥ 12-25a-19a प्रत्यक्षमनुपश्यामि त्वमपि द्रष्टुमर्हसि। 12-25a-19b वर्जनं वर्जनीयानामीहामनेन दुष्करम्॥ 12-25a-20a ये वित्तमभिपद्यन्ते सम्यक्त्वं तेषु दुर्लभम्। 12-25a-20b द्रुह्यतः प्रैति तत्प्राहुः प्रतिकूलं यथातथम्॥ 12-25a-21a यस्तु संभिन्नवृत्तः स्याद्वीतशोकभयो नरः। 12-25a-21b अल्पेन तृषितो द्रुह्यन् भ्रूणहत्यां न बुध्यते॥ 12-25a-22a दुष्यन्त्याददतो भृत्या नित्यं दस्युभयादिव। 12-25a-22b दुर्लभं च धनं प्राप्य भृशं दत्वाऽनुतप्यते॥ 12-25a-23a अधनः कस्य किं वाच्यो विमुक्तः सर्वशः सुखी। 12-25a-23b देवस्वमुपगृह्यैव धनेन न सुखी भवेत्॥ 12-25a-24a तत्र गाथां यज्ञगीतां कीर्तयन्ति पुराविदः। 12-25a-24b त्रयीमुपाश्रितां लोके यज्ञसंस्तरकारिकाम्॥ 12-25a-25a यज्ञाय सृष्टानि धनानि धात्रा 12-25a-25b यज्ञाय सृष्टः पुरुषो रक्षिता च। 12-25a-25c तस्मात्सर्वं यज्ञ एवोपयोज्यं 12-25a-25d धनं न कामाय हितं प्रशस्तम्॥ 12-25a-26a एतत्स्वार्थे च कौन्तेय धनं धनवतां वर। 12-25a-26b धाता ददाति मर्त्येभ्यो यज्ञार्थमिति विद्धि तत्॥ 12-25a-27a तस्माद्वुद्ध्यन्ति पुरुषा न हि तत्कस्यचिद्भुवम्। 12-25a-27b श्रद्दधानस्ततो लोको दद्याच्चैव यजेत च॥ 12-25a-28a लब्धस्य त्यागमित्याहुर्न भोगं न च संक्षयम्। 12-25a-28b तस्य किं संचयेनार्थः कार्ये ज्यायसि तिष्ठति॥ 12-25a-29a ये स्वधर्मादपेतेभ्यः प्रयच्छन्त्यल्पबुद्धयः। 12-25a-29b शतं वर्षाणि ते प्रेत्य पुरीषं भुञ्जते जनाः॥ 12-25a-30a अनर्हते यद्ददाति न ददाति यदर्हते। 12-25a-30b अर्हानर्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः॥ 12-25a-31a लब्धानामपि वित्तानां बोद्धव्यौ द्वावतिक्रमौ। 12-25a-31b अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम्॥]

Mahabharata - Shanti Parva - Chapter Footnotes

12-25a-4 समयं अध्ययनसंप्रदायस्याविच्छेदं आश्रिता आश्रमिणः। ब्रह्मचारिण इत्यर्थः॥ 12-25a-6 कार्याणि राजकार्याणि। प्रतिष्ठाप्यानि तद्वचसानुष्ठेयानीत्यर्थः। वैखानसानां वानप्रस्थानाम्॥ 12-25a-7 अजादयो वालखिल्यवदृषीणां गणविशेषाः॥ 12-25a-9 एतान् द्युरूपान्। क्रियावतां कर्मिणाम्॥ 12-25a-10 उत्तरेण उत्तरतः स्थितम्॥ 12-25a-12 सा तुष्टिः परमवैराग्याभिधा उत्तमा सिद्धिः। विनीतक्रोधहर्षस्य क्रोधादिजयिनः सम्यक् प्रतितिष्ठति इतरस्य तु नेत्यर्थः॥ 12-25a-16 आत्मज्योतिषः आत्मज्ञस्य। निर्वाणं मोक्षः॥ 12-25a-17 वृत्तं शीलम्। ईहन्ति ईहन्ते॥ 12-25a-18 धनहेतोः धर्माय वित्तस्यार्जने इति शेषः। तदाश्रयो धर्मो यज्ञादिस्तस्मिन्नपि भूयान्दोषोऽस्ति॥ 12-25a-19 ईहमानेन धनार्थिना॥ 12-25a-20 सम्यक्त्वं साधुकर्म द्रुह्यतः। द्रोहयुक्तानेव तद्धनं प्रेति न त्वद्रोहानिति प्राहुः। हिंसां विना धनप्राप्तिर्नास्तीत्यर्थः। प्राप्तमपि यथायथं सर्वथा प्रतिकूलं नानाभयहेतुत्वात्॥ 12-25a-21 अल्पार्थेऽपि ब्रह्महत्यामर्जयतीत्यर्थः॥ 12-25a-22 दुर्लभं धनं प्राप्यानुकूलेभ्योऽपि भृत्येभ्यो दत्त्वा दस्युभयादिव भृशमनुतप्यत इति संबन्धः। वित्तव्यये महद्दुःखं भवतीत्यर्थः॥ 12-25a-23 देवस्वं तथा त्रैवार्षिकाधिकान्नो यः सहि सोमं पिबेद्द्विजः। प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेदिति स्मृतेरल्पमपि संचितं धनं देवस्वमेव। तदप्युपसंगृह्य देवेभ्योऽदत्त्वैव न तेन तावतापि सुखी भवेत्किं तु लाभाल्लोभः प्रवर्तत इतिन्यायेन तृष्णाधिक्याद्दुःखमेवानुभवतीत्यर्थः॥ 12-25a-24 गाथां वैदिकजने यज्ञप्रतिष्ठाकरीम्॥ 12-25a-26 चाद्यज्ञार्थेऽपि॥ 12-25a-28 इत्याहुः प्रशस्तमाहुरित्यर्थः। कार्ये त्यागरूपे॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.